भगवान गणपति के १२ शीघ्र फल देने वाले नामो का संकष्टनाशन गणेश स्तोत्र
गणपति विध्न-बाधा दूर करने वाले, रिद्धि-सिद्धि, विद्या-बुद्धि के दाता हैं। मांगलिक कार्यो मे प्रथम पूजनीय तथा सर्व विधि मंगलकारी है। योगिक साधना की पूर्ति मे भी महागणपति की कृपा प्राप्ति अत्यन्त आवश्यक है।नारद जी द्वारा नारदपुराण मे वर्णित संकष्टनाशनं गणेश स्तोत्र के चमत्कारी 12 श्री गणेश के नाम स्मरण से भगवान गणपति की कृपा शीघ्र प्राप्त होती है
॥ संकष्टनाशन गणेश स्तोत्रम् ॥
श्रीगणेशाय नमः ।
नारद उवाच ।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्त्या व्यासः स्मरेन्नित्यमायुः कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्रं चतुर्थकम् ॥२॥
लंबोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥ ३ ॥
नवमं भालचंद्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
जपेद्गणपतिस्तोत्रं षभिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥७॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥८॥
॥ इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेशस्तोत्रं संपूर्णम् ॥
No comments:
Post a Comment